अक्षरब्रह्मयोगः

अथ अष्टमोऽध्यायः    

अक्षरब्रह्मयोगः


        अर्जुन उवाच

किं तद् ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम

अधिभूतं किं प्रोक्तमधिदैवं किमुच्यते -१॥


अधियज्ञः कथं कोऽत्र देहेऽस्मिन्मधुसूदन

प्रयाणकाले कथं ज्ञेयोऽसि नियतात्मभिः -२॥


        श्रीभगवानुवाच

अक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममुच्यते

भूतभावोद्भवकरो विसर्गः कर्मसंज्ञितः -३॥


अधिभूतं क्षरो भावः पुरुषश्चाधिदैवतम्

अधियज्ञोऽहमेवात्र देहे देहभृतां वर -४॥


अन्तकाले मामेव स्मरन्मुक्त्वा कलेवरम्

यः प्रयाति मद्भावं याति नास्त्यत्र संशयः -५॥


यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेवरम्

तं तमेवैति कौन्तेय सदा तद्भावभावितः -६॥


तस्मात्सर्वेषु कालेषु मामनुस्मर युध्य

मय्यर्पितमनोबुद्धिर्मामेवैष्यस्यसंशयः -७॥ orसंशयम्


अभ्यासयोगयुक्तेन चेतसा नान्यगामिना

परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन् -८॥


कविं पुराणमनुशासितार-

        मणोरणीयंसमनुस्मरेद्यः

सर्वस्य धातारमचिन्त्यरूप-

        मादित्यवर्णं तमसः परस्तात् -९॥


प्रयाणकाले मनसाऽचलेन

        भक्त्या युक्तो योगबलेन चैव

भ्रुवोर्मध्ये प्राणमावेश्य सम्यक्

        तं परं पुरुषमुपैति दिव्यम् -१०॥


यदक्षरं वेदविदो वदन्ति

        विशन्ति यद्यतयो वीतरागाः

यदिच्छन्तो ब्रह्मचर्यं चरन्ति

        तत्ते पदं सङ्ग्रहेण प्रवक्ष्ये -११॥


सर्वद्वाराणि संयम्य मनो हृदि निरुध्य

मूर्ध्न्याधायात्मनः प्राणमास्थितो योगधारणाम् -१२॥


ओमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन्

यः प्रयाति त्यजन्देहं याति परमां गतिम् -१३॥


अनन्यचेताः सततं यो मां स्मरति नित्यशः

तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः -१४॥


मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम्

नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः -१५॥


आब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुन

मामुपेत्य तु कौन्तेय पुनर्जन्म विद्यते -१६॥


सहस्रयुगपर्यन्तमहर्यद् ब्रह्मणो विदुः

रात्रिं युगसहस्रान्तां तेऽहोरात्रविदो जनाः -१७॥


अव्यक्ताद् व्यक्तयः सर्वाः प्रभवन्त्यहरागमे

रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसंज्ञके -१८॥


भूतग्रामः एवायं भूत्वा भूत्वा प्रलीयते

रात्र्यागमेऽवशः पार्थ प्रभवत्यहरागमे -१९॥


परस्तस्मात्तु भावोऽन्योऽव्यक्तोऽव्यक्तात्सनातनः

यः सर्वेषु भूतेषु नश्यत्सु विनश्यति -२०॥


अव्यक्तोऽक्षर इत्युक्तस्तमाहुः परमां गतिम्

यं प्राप्य निवर्तन्ते तद्धाम परमं मम -२१॥


पुरुषः परः पार्थ भक्त्या लभ्यस्त्वनन्यया

यस्यान्तःस्थानि भूतानि येन सर्वमिदं ततम् -२२॥


यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः

प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ -२३॥


अग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणम्

तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः -२४॥


धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम्

तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते -२५॥


शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते

एकया यात्यनावृत्तिमन्ययावर्तते पुनः -२६॥


नैते सृती पार्थ जानन्योगी मुह्यति कश्चन

तस्मात्सर्वेषु कालेषु योगयुक्तो भवार्जुन -२७॥


वेदेषु यज्ञेषु तपःसु चैव

        दानेषु यत्पुण्यफलं प्रदिष्टम्

अत्येति तत्सर्वमिदं विदित्वा

        योगी परं स्थानमुपैति चाद्यम् -२८॥


तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु

ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे

अक्षरब्रह्मयोगो नामाष्टमोऽध्यायः ८॥

Translations by:

Gita - Pujya Swami Dayananda Saraswati, Gita Home Study; Atmabodha - Swami Chinmayananda; Aparokshanubhuti - Swami Vimuktananda, Belur Math