राजविद्याराजगुह्ययोगः

अथ नवमोऽध्यायः    

राजविद्याराजगुह्ययोगः


        श्रीभगवानुवाच

इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे

ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात् -१॥


राजविद्या राजगुह्यं पवित्रमिदमुत्तमम्

प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम् -२॥


अश्रद्दधानाः पुरुषा धर्मस्यास्य परन्तप

अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि -३॥


मया ततमिदं सर्वं जगदव्यक्तमूर्तिना

मत्स्थानि सर्वभूतानि चाहं तेष्ववस्थितः -४॥


मत्स्थानि भूतानि पश्य मे योगमैश्वरम्

भूतभृन्न भूतस्थो ममात्मा भूतभावनः -५॥


यथाकाशस्थितो नित्यं वायुः सर्वत्रगो महान्

तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय -६॥


सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम्

कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् -७॥


प्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः

भूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशात् -८॥


मां तानि कर्माणि निबध्नन्ति धनञ्जय

उदासीनवदासीनमसक्तं तेषु कर्मसु -९॥


मयाध्यक्षेण प्रकृतिः सूयते सचराचरम्

हेतुनानेन कौन्तेय जगद्विपरिवर्तते -१०॥


अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम्

परं भावमजानन्तो मम भूतमहेश्वरम् -११॥


मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः

राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः -१२॥


महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः

भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् -१३॥


सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः

नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते -१४॥


ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते

एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम् -१५॥


अहं क्रतुरहं यज्ञः स्वधाहमहमौषधम्

मन्त्रोऽहमहमेवाज्यमहमग्निरहं हुतम् -१६॥


पिताहमस्य जगतो माता धाता पितामहः

वेद्यं पवित्रमोङ्कार ऋक्साम यजुरेव -१७॥


गतिर्भर्ता प्रभुः साक्षी निवासः शरणं सुहृत्

प्रभवः प्रलयः स्थानं निधानं बीजमव्ययम् -१८॥


तपाम्यहमहं वर्षं निगृह्णाम्युत्सृजामि

अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन -१९॥


त्रैविद्या मां सोमपाः पूतपापा

        यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते

ते पुण्यमासाद्य सुरेन्द्रलोक-

        मश्नन्ति दिव्यान्दिवि देवभोगान् -२०॥


ते तं भुक्त्वा स्वर्गलोकं विशालं

        क्षीणे पुण्ये मर्त्यलोकं विशन्ति

एवं त्रयीधर्ममनुप्रपन्ना

        गतागतं कामकामा लभन्ते -२१॥


अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते

तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् -२२॥


येऽप्यन्यदेवता भक्ता यजन्ते श्रद्धयान्विताः

तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् -२३॥


अहं हि सर्वयज्ञानां भोक्ता प्रभुरेव

तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते -२४॥


यान्ति देवव्रता देवान्पितॄन्यान्ति पितृव्रताः

भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम् -२५॥


पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति

तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः -२६॥


यत्करोषि यदश्नासि यज्जुहोषि ददासि यत्

यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् -२७॥


शुभाशुभफलैरेवं मोक्ष्यसे कर्मबन्धनैः

संन्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि -२८॥


समोऽहं सर्वभूतेषु मे द्वेष्योऽस्ति प्रियः

ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम् -२९॥


अपि चेत्सुदुराचारो भजते मामनन्यभाक्

साधुरेव मन्तव्यः सम्यग्व्यवसितो हि सः -३०॥


क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति

कौन्तेय प्रतिजानीहि मे भक्तः प्रणश्यति -३१॥


मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः

स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम् -३२॥


किं पुनर्ब्राह्मणाः पुण्या भक्ता राजर्षयस्तथा

अनित्यमसुखं लोकमिमं प्राप्य भजस्व माम् -३३॥


मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु

मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः -३४॥


तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु

ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे

राजविद्याराजगुह्ययोगो नाम नवमोऽध्यायः ९॥

Translations by:

Gita - Pujya Swami Dayananda Saraswati, Gita Home Study; Atmabodha - Swami Chinmayananda; Aparokshanubhuti - Swami Vimuktananda, Belur Math