दैवासुरसम्पद्विभागयोगः

अथ षोडशोऽध्यायः    

दैवासुरसम्पद्विभागयोगः


        श्रीभगवानुवाच

अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः

दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् १६-१॥


अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम्

दया भूतेष्वलोलुप्त्वं मार्दवं ह्रीरचापलम् १६-२॥


तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता

भवन्ति सम्पदं दैवीमभिजातस्य भारत १६-३॥


दम्भो दर्पोऽभिमानश्च क्रोधः पारुष्यमेव

अज्ञानं चाभिजातस्य पार्थ सम्पदमासुरीम् १६-४॥


दैवी सम्पद्विमोक्षाय निबन्धायासुरी मता

मा शुचः सम्पदं दैवीमभिजातोऽसि पाण्डव १६-५॥


द्वौ भूतसर्गौ लोकेऽस्मिन्दैव आसुर एव

दैवो विस्तरशः प्रोक्त आसुरं पार्थ मे श‍ृणु १६-६॥


प्रवृत्तिं निवृत्तिं जना विदुरासुराः

शौचं नापि चाचारो सत्यं तेषु विद्यते १६-७॥


असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम्

अपरस्परसम्भूतं किमन्यत्कामहैतुकम् १६-८॥


एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः

प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः १६-९॥


काममाश्रित्य दुष्पूरं दम्भमानमदान्विताः

मोहाद्गृहीत्वासद्ग्राहान्प्रवर्तन्तेऽशुचिव्रताः १६-१०॥


चिन्तामपरिमेयां प्रलयान्तामुपाश्रिताः

कामोपभोगपरमा एतावदिति निश्चिताः १६-११॥


आशापाशशतैर्बद्धाः कामक्रोधपरायणाः

ईहन्ते कामभोगार्थमन्यायेनार्थसञ्चयान् १६-१२॥


इदमद्य मया लब्धमिमं प्राप्स्ये मनोरथम्

इदमस्तीदमपि मे भविष्यति पुनर्धनम् १६-१३॥


असौ मया हतः शत्रुर्हनिष्ये चापरानपि

ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान्सुखी १६-१४॥


आढ्योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया

यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिताः १६-१५॥


अनेकचित्तविभ्रान्ता मोहजालसमावृताः

प्रसक्ताः कामभोगेषु पतन्ति नरकेऽशुचौ १६-१६॥


आत्मसम्भाविताः स्तब्धा धनमानमदान्विताः

यजन्ते नामयज्ञैस्ते दम्भेनाविधिपूर्वकम् १६-१७॥


अहङ्कारं बलं दर्पं कामं क्रोधं संश्रिताः

मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः १६-१८॥


तानहं द्विषतः क्रूरान्संसारेषु नराधमान्

क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु १६-१९॥


आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि

मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् १६-२०॥


त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः

कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत् १६-२१॥


एतैर्विमुक्तः कौन्तेय तमोद्वारैस्त्रिभिर्नरः

आचरत्यात्मनः श्रेयस्ततो याति परां गतिम् १६-२२॥


यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः

सिद्धिमवाप्नोति सुखं परां गतिम् १६-२३॥


तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ

ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि १६-२४॥


तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु

ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे

दैवासुरसम्पद्विभागयोगो नाम षोडशोऽध्यायः १६॥

Translations by:

Gita - Pujya Swami Dayananda Saraswati, Gita Home Study; Atmabodha - Swami Chinmayananda; Aparokshanubhuti - Swami Vimuktananda, Belur Math