श्रद्धात्रयविभागयोगः

अथ सप्तदशोऽध्यायः    

श्रद्धात्रयविभागयोगः


        अर्जुन उवाच

ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विताः

तेषां निष्ठा तु का कृष्ण सत्त्वमाहो रजस्तमः १७-१॥


        श्रीभगवानुवाच

त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा

सात्त्विकी राजसी चैव तामसी चेति तां श‍ृणु १७-२॥


सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत

श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः एव सः १७-३॥


यजन्ते सात्त्विका देवान्यक्षरक्षांसि राजसाः

प्रेतान्भूतगणांश्चान्ये यजन्ते तामसा जनाः १७-४॥


अशास्त्रविहितं घोरं तप्यन्ते ये तपो जनाः

दम्भाहङ्कारसंयुक्ताः कामरागबलान्विताः १७-५॥


कर्षयन्तः शरीरस्थं भूतग्राममचेतसः

मां चैवान्तःशरीरस्थं तान्विद्ध्यासुरनिश्चयान् १७-६॥


आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रियः

यज्ञस्तपस्तथा दानं तेषां भेदमिमं श‍ृणु १७-७॥


आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्धनाः

रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः १७-८॥


कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः

आहारा राजसस्येष्टा दुःखशोकामयप्रदाः १७-९॥


यातयामं गतरसं पूति पर्युषितं यत्

उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम् १७-१०॥


अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टो इज्यते

यष्टव्यमेवेति मनः समाधाय सात्त्विकः १७-११॥


अभिसन्धाय तु फलं दम्भार्थमपि चैव यत्

इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम् १७-१२॥


विधिहीनमसृष्टान्नं मन्त्रहीनमदक्षिणम्

श्रद्धाविरहितं यज्ञं तामसं परिचक्षते १७-१३॥


देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवम्

ब्रह्मचर्यमहिंसा शारीरं तप उच्यते १७-१४॥


अनुद्वेगकरं वाक्यं सत्यं प्रियहितं यत्

स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते १७-१५॥


मनः प्रसादः सौम्यत्वं मौनमात्मविनिग्रहः

भावसंशुद्धिरित्येतत्तपो मानसमुच्यते १७-१६॥


श्रद्धया परया तप्तं तपस्तत्त्रिविधं नरैः

अफलाकाङ्क्षिभिर्युक्तैः सात्त्विकं परिचक्षते १७-१७॥


सत्कारमानपूजार्थं तपो दम्भेन चैव यत्

क्रियते तदिह प्रोक्तं राजसं चलमध्रुवम् १७-१८॥


मूढग्राहेणात्मनो यत्पीडया क्रियते तपः

परस्योत्सादनार्थं वा तत्तामसमुदाहृतम् १७-१९॥


दातव्यमिति यद्दानं दीयतेऽनुपकारिणे

देशे काले पात्रे तद्दानं सात्त्विकं स्मृतम् १७-२०॥


यत्तु प्रत्युपकारार्थं फलमुद्दिश्य वा पुनः

दीयते परिक्लिष्टं तद्दानं राजसं स्मृतम् १७-२१॥


अदेशकाले यद्दानमपात्रेभ्यश्च दीयते

असत्कृतमवज्ञातं तत्तामसमुदाहृतम् १७-२२॥


ॐतत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः

ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा १७-२३॥


तस्मादोमित्युदाहृत्य यज्ञदानतपःक्रियाः

प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम् १७-२४॥


तदित्यनभिसन्धाय फलं यज्ञतपःक्रियाः

दानक्रियाश्च विविधाः क्रियन्ते मोक्षकाङ्क्षिभिः १७-२५॥


सद्भावे साधुभावे सदित्येतत्प्रयुज्यते

प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यते १७-२६॥


यज्ञे तपसि दाने स्थितिः सदिति चोच्यते

कर्म चैव तदर्थीयं सदित्येवाभिधीयते १७-२७॥


अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं यत्

असदित्युच्यते पार्थ तत्प्रेत्य नो इह १७-२८॥


तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु

ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे

श्रद्धात्रयविभागयोगो नाम सप्तदशोऽध्यायः १७॥

Translations by:

Gita - Pujya Swami Dayananda Saraswati, Gita Home Study; Atmabodha - Swami Chinmayananda; Aparokshanubhuti - Swami Vimuktananda, Belur Math