कर्मयोगः

अथ तृतीयोऽध्यायः    

कर्मयोगः

        अर्जुन उवाच

ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन

तत्किं कर्मणि घोरे मां नियोजयसि केशव -१॥


व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे

तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम् -२॥


        श्रीभगवानुवाच

लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयानघ

ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनाम् -३॥


कर्मणामनारम्भान्नैष्कर्म्यं पुरुषोऽश्नुते

संन्यसनादेव सिद्धिं समधिगच्छति -४॥


हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत्

कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः -५॥


कर्मेन्द्रियाणि संयम्य आस्ते मनसा स्मरन्

इन्द्रियार्थान्विमूढात्मा मिथ्याचारः उच्यते -६॥


यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन

कर्मेन्द्रियैः कर्मयोगमसक्तः विशिष्यते -७॥


नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः

शरीरयात्रापि ते प्रसिद्ध्येदकर्मणः -८॥


यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः

तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर -९॥


सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः

अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक् -१०॥


देवान्भावयतानेन ते देवा भावयन्तु वः

परस्परं भावयन्तः श्रेयः परमवाप्स्यथ -११॥


इष्टान्भोगान्हि वो देवा दास्यन्ते यज्ञभाविताः

तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः -१२॥


यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः

भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात् -१३॥


अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसम्भवः

यज्ञाद्भवति पर्जन्यो यज्ञः कर्मसमुद्भवः -१४॥


कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम्

तस्मात्सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् -१५॥


एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः

अघायुरिन्द्रियारामो मोघं पार्थ जीवति -१६॥


यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः

आत्मन्येव सन्तुष्टस्तस्य कार्यं विद्यते -१७॥


नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन

चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः -१८॥


तस्मादसक्तः सततं कार्यं कर्म समाचर

असक्तो ह्याचरन्कर्म परमाप्नोति पूरुषः -१९॥


कर्मणैव हि संसिद्धिमास्थिता जनकादयः

लोकसङ्ग्रहमेवापि सम्पश्यन्कर्तुमर्हसि -२०॥


यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः

यत्प्रमाणं कुरुते लोकस्तदनुवर्तते -२१॥


मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन

नानवाप्तमवाप्तव्यं वर्त एव कर्मणि -२२॥


यदि ह्यहं वर्तेयं जातु कर्मण्यतन्द्रितः

मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः -२३॥


उत्सीदेयुरिमे लोका कुर्यां कर्म चेदहम्

सङ्करस्य कर्ता स्यामुपहन्यामिमाः प्रजाः -२४॥


सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत

कुर्याद्विद्वांस्तथासक्तश्चिकीर्षुर्लोकसङ्ग्रहम् -२५॥


बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम्

जोषयेत्सर्वकर्माणि विद्वान्युक्तः समाचरन् -२६॥


प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः

अहङ्कारविमूढात्मा कर्ताहमिति मन्यते -२७॥


तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः

गुणा गुणेषु वर्तन्त इति मत्वा सज्जते -२८॥


प्रकृतेर्गुणसम्मूढाः सज्जन्ते गुणकर्मसु

तानकृत्स्नविदो मन्दान्कृत्स्नविन्न विचालयेत् -२९॥


मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा

निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः -३०॥


ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवाः

श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभिः -३१॥


ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम्

सर्वज्ञानविमूढांस्तान्विद्धि नष्टानचेतसः -३२॥


सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि

प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति -३३॥


इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ

तयोर्न वशमागच्छेत्तौ ह्यस्य परिपन्थिनौ -३४॥


श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात्

स्वधर्मे निधनं श्रेयः परधर्मो भयावहः -३५॥


        अर्जुन उवाच

अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः

अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः -३६॥


        श्रीभगवानुवाच

काम एष क्रोध एष रजोगुणसमुद्भवः

महाशनो महापाप्मा विद्ध्येनमिह वैरिणम् -३७॥


धूमेनाव्रियते वह्निर्यथादर्शो मलेन

यथोल्बेनावृतो गर्भस्तथा तेनेदमावृतम् -३८॥


आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा

कामरूपेण कौन्तेय दुष्पूरेणानलेन -३९॥


इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यते

एतैर्विमोहयत्येष ज्ञानमावृत्य देहिनम् -४०॥


तस्मात्त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ

पाप्मानं प्रजहि ह्येनं ज्ञानविज्ञाननाशनम् -४१॥


इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः

मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः -४२॥


एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानमात्मना

जहि शत्रुं महाबाहो कामरूपं दुरासदम् -४३॥


तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु

ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे

कर्मयोगो नाम तृतीयोऽध्यायः ३॥ 

Translations by:

Gita - Pujya Swami Dayananda Saraswati, Gita Home Study; Atmabodha - Swami Chinmayananda; Aparokshanubhuti - Swami Vimuktananda, Belur Math